(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - Drona Parva


॥ श्रीः ॥
7.150. अध्यायः 150
Mahabharata - Drona Parva - Chapter Topics
युधिष्ठिरेण स्वाभिवादकानां कृष्णभीमार्जुनसात्यकीनामालिङ्गनादिना सत्कारः॥ 1 ॥ कृष्णयुधिष्ठिरयोः संलापः॥ 2 ॥


Mahabharata - Drona Parva - Chapter Text

सञ्जय उवाच। 7-150-0x(4661)(51573)
ततो राजानमभ्येत्य धर्मपुत्रं युधिष्ठिरम्।
ववन्दे सम्प्रहृष्टात्मा हते पार्थेन सैन्धवे॥ 7-150-1(51574)
दिष्ट्या वर्धसि राजेन्द्र हतशत्रुर्नरोत्तम।
दिष्ट्या निस्तीर्णवांशैव प्रतिज्ञामनुजस्तव॥ 7-150-2(51575)
स त्वेवमुक्तः कृष्णेन हृष्टः परपुरञ्जयः।
ततो युधिष्ठिरो राजा रथादाप्लुत्य भारत।
पर्यष्वजत्तदा कृष्णावानन्दाश्रुपरिप्लुतः॥ 7-150-3(51576)
प्रमृज्य वदनं शुभ्रं पुण्डरीकसमप्रभम्।
अब्रवीद्वासुदेवं च पाण्डवं च धनञ्जयम्॥ 7-150-4(51577)
प्रियमेतदुपश्रुत्य त्वत्तः पुष्करलोचन।
नान्तं गच्छामि हर्षस्य तितीर्षुरुदधेरिव॥ 7-150-5(51578)
अत्यद्भुतमिदं कृष्ण कृतं पार्थेन धीमता।
दिष्ट्या पश्यामि सङ्ग्रामे तीर्णभारौ महारथौ॥ 7-150-6(51579)
दिष्ट्या च निहतः पापः सैन्धवः पुरुषाधमः।
`दिष्ट्या शत्रुगणाश्चैव निमग्नाः शोकसागरे'॥ 7-150-7(51580)
कृष्ण दिष्ट्या मम प्रीतिर्महती प्रतिपादिता।
त्वया गुप्तेन गोविन्द घ्नता पापं जयद्रथम्॥ 7-150-8(51581)
किन्तु नात्यद्भुतं तेषां येषां नस्त्वं समाश्रयः।
न तेषां दुष्कृतं किञ्चित्त्रिषु लोकेषु विद्यते।
सर्वलोकगुरुर्येषां त्वं नाथो मधुसूदन॥ 7-150-9(51582)
त्वत्प्रसादाद्धि गोविन्द वयं जेष्यामहे रिपून्।
`यथा पुरा प्रसादात्ते दानवान्पाकशासनः॥ 7-150-10(51583)
पृथिव्या विजयो वापि त्रैलोक्यविजयोऽपि वा।
ध्रुवो हि तेषां वार्ष्णेय येषां तुष्टोऽसि मानद॥ 7-150-11(51584)
न तेषां विद्यते पापं सङ्ग्रामे वा पराजयः।
त्रिदशेश्वर नाथस्त्वं येषां तुष्टोऽसि माधव॥ 7-150-12(51585)
त्वत्प्रसादाद्धृषीकेश शक्रः सुरगणेश्वरः।
त्रैलोक्यविजयं श्रीमान्प्राप्तवान्रणमूर्धनि॥ 7-150-13(51586)
तव चैव प्रसादेन त्रिदशास्त्रिदशेश्वराः।
अमरत्वं गताः कृष्ण लोकांश्चाश्नुवतेऽक्षयान्'॥ 7-150-14(51587)
स्थितः सर्वात्मना नित्यं प्रियेषु च हितेषु च।
त्वां चैवास्माभिराश्रित्य कृतः शस्त्रसमुद्यमः।
सुरैरिवासुरवधे शक्रं शक्रानुजाहवे॥ 7-150-15(51588)
असंभाव्यमिदं कर्म देवैरपि जनार्दन।
त्वद्बुद्धिबलवीर्येण कृतवानेष फल्गुनः॥ 7-150-16(51589)
बाल्यात्प्रभृति ते कृष्ण कर्माणि श्रुतवानहम्।
अमानुषाणि दिव्यानि महान्ति च बहूनि च।
तदैवाज्ञासिषं शत्रून्हतान्प्राप्तां च मेदिनीम्॥ 7-150-17(51590)
त्वत्प्रसादसमुत्थेन विक्रमेणारिसूदन।
सुरेशत्वं गतः शक्रो हत्वा दैत्यान्सहस्रशः॥ 7-150-18(51591)
त्वत्प्रसादाद्वृषीकेश जगत्स्थावरजङ्गमम्।
स्ववर्त्मनि स्थितं वीर जपरहोमेषु वर्तते॥ 7-150-19(51592)
एकार्णवमिदं पूर्वं सर्वमासीत्तमोमयम्।
त्वत्प्रसादान्माहाबाहो जगत्प्राप्तं नरोत्तम॥ 7-150-20(51593)
स्रष्टारं सर्वलोकानां परमात्मानमव्ययम्।
ये पश्यन्ति हृषीकेश न ते मुह्यन्ति कर्हिचित्॥ 7-150-21(51594)
पुराणं परमं देवं देवदेवं सनातनम्।
ये प्रपन्नाः सुरगुरुं न ते मुह्यन्ति कर्हिचित्॥ 7-150-22(51595)
अनादिनिधनं देवं लोककर्तारमव्ययम्।
ये भक्तास्त्वां हृषीकेश दुर्गाण्यतितरन्ति ते॥ 7-150-23(51596)
परं पुराणं पुरुषं पराणां परमं च यत्।
प्रपद्यतस्तत्परमं परा भूतिर्विधीयते॥ 7-150-24(51597)
गायन्ति चतुरो वेदा यश्च देवेषु गीयते।
तं प्रपद्य महात्मानं भूतिमश्नाम्यनुत्तमाम्॥ 7-150-25(51598)
परमेश परेशेश तिर्यगीश नरेश्वर।
सर्वेश्वरेश्वरेशेन नमस्ते पुरुषोत्तम॥ 7-150-26(51599)
त्वमीशेशेश्वरेशान प्रभो वर्धस्व माधव।
प्रभवाप्यय सर्वस्य सर्वात्मन्पृथुलोचन॥ 7-150-27(51600)
धनञ्जयसखा यश्च धनञ्जयहितश्च यः।
धनञ्जयस्य गोप्ता तं प्रपद्य सुखमेधते॥ 7-150-28(51601)
[मार्कण्डेयः पुराणर्षिश्चरितज्ञस्तवानघ।
माहात्म्यमनुभावं पुरा फीर्तितवान्मुनिः॥ 7-150-29(51602)
असितो देवलश्चैव नारदश्च महातपाः।
पितामहश्च मे व्यासस्त्वामाहुर्विधिमुत्तमम्॥ 7-150-30(51603)
त्वं तेजस्त्वं परं ब्रह्म त्वं सत्यं त्वं महत्तपः।
त्वं श्रेयस्त्वं यशश्चाग्र्यं कारणं जगतस्तथा॥ 7-150-31(51604)
त्वया सृष्टमिदं सर्वं जगत्स्थावरजङ्गमम्।
प्रलये समनुप्राप्ते त्वां वै निविशते पुनः॥ 7-150-32(51605)
अनादिनिधनं देवं विश्वस्येशं जगत्पते।
धातारमजमव्यक्तमाहुर्वेदविदो जनाः॥ 7-150-33(51606)
भूतात्मानं महात्मानमनन्तं विश्वतोमुखम्।
अपि देवा न जानन्ति गुह्यमाद्यं जगत्पतिम्।
नारायणं परं देवं परमात्मानमीश्वरम्॥ 7-150-34(51607)
ज्ञानयोनिं हरिं विष्णुं मुमुक्षूणां परायणम्।
परं पुराणं पुरुषं पुराणानां परं च यत्॥ 7-150-35(51608)
एवमादिगुणानां ते कर्मणां दिवि चेह च।
अतीतभूतभव्यानां सङ्ख्याताऽत्र न विद्यते॥ 7-150-36(51609)
सर्वतो रक्षणीयाः स्म शक्रेणेव दिवौकसः।
यैस्त्वं सर्वगुणोपेतः सुहृन्न उपपादितः॥ 7-150-37(51610)
इत्येवं धर्मराजेन हरिरुक्तो महायशाः।
अनुरूपमिदं वाक्यं प्रत्युवाच जनार्दनः॥ 7-150-38(51611)
भवता तपसोग्रेण धर्मेण परमेण च।
साधुत्वादार्जवाच्चैव हतः पापो जयद्रथः॥ 7-150-39(51612)
अयं च पुरुषव्याघ्र त्वदनुध्यानसंवृतः।
हत्वा योधसहस्राणि न्यहञ्जिष्णुर्जयद्रथम्॥ 7-150-40(51613)
कृतित्वे बाहुवीर्ये च तथैवासम्भ्रमेऽपि च।
शीघ्रतामोधबुद्धित्वे नास्ति पार्थसमः क्वचित्॥ 7-150-41(51614)
तदयं भरतश्रेष्ठ भ्राता तेऽद्य यदर्जुनः।
सैन्यक्षयं रणे कृत्वा सिन्धुराजशिरोऽहरत्॥ 7-150-42(51615)
ततो धर्मसुतो जिष्णुं परिष्वज्य विशाम्पते।
प्रमृज्य वदनं तस्य पर्याश्वासयत प्रभुः॥ 7-150-43(51616)
अतीव सुमहत्कर्म कृतवानसि फल्गुन।
असह्यं चाविषह्यं च देवैरपि सवासवैः॥ 7-150-44(51617)
दिष्टा निस्तीर्णभारोऽसि हतारिश्चासि शत्रुहन्।
दिष्ट्या सत्या प्रतिज्ञेयं कृता हत्वा जयद्रथम्॥ 7-150-45(51618)
एवमुक्त्वा गुडाकेशं धर्मराजो महायशाः।
पस्पर्श पुण्यगन्धेन पृष्ठे हस्तेन पार्थिवाः॥] 7-150-46(51619)
सञ्जय उवाच। 7-150-47x(4662)
एवमुक्तौ महात्मानावुभौ केशवपाण्डवौ।
तावब्रूतां तदा कृष्णौ राजानं पृथिवीपतिम्॥ 7-150-47(51620)
तव कोपाग्निना दग्धः पापो राजञ्जयद्रथः।
उत्तीर्णं चापि सुमहद्धार्तराष्ट्रबलं रणे॥ 7-150-48(51621)
युधिष्ठिर उवाच। 7-150-49x(4663)
हन्यन्ते निहताश्चैव विनङ्क्ष्यन्ति च केशव।
तव क्रोधहता ह्येते कौरवाः शत्रुसूदन॥ 7-150-49(51622)
त्वां हि चक्षुर्हणं वीर कोपयित्वा सुयोधनः।
समित्रबन्धुः समरे प्राणांस्त्यक्ष्यति दुर्मतिः॥ 7-150-50(51623)
तव क्रोधहतः पूर्वं देवैरपि सुदुर्जयः।
शरतल्पगतः शेते भीष्मः कुरुपितामहः॥ 7-150-51(51624)
दुर्लभो विजयस्तेषां सम्प्रामे रिपुघातिनाम्।
याता मृत्युवशं ते वै येषां क्रुद्धोऽपि माधव॥ 7-150-52(51625)
राज्यं प्राणाः श्रियः पुत्राः सौख्यानि विविधानि च।
अचिरात्तस्य नश्यन्ति येषां क्रुद्धोऽसि मानद॥ 7-150-53(51626)
भगवानुवाच। 7-150-54x(4664)
विनष्टान्कौरवान्मन्ये सपुत्रपशुबान्धवान्।
राजधर्मपरे नित्यं त्वयि क्रुद्धे परन्तप॥ 7-150-54(51627)
सञ्जय उवाच। 7-150-55x(4665)
ततो भीमो महाबाहुः सात्यकिश्च महारथः।
अभिवाद्य गुरुं ज्येष्ठं मार्गणैः क्षतविक्षतौ।
क्षितावास्तां महेष्वासौ पाञ्चाल्यपरिवारितौ॥ 7-150-55(51628)
तौ दृष्ट्वा मुदितो वीरौ प्राञ्जली चाग्रतः स्थितौ।
अभ्यनन्दत कौन्तेयस्तावुभौ भीमसात्यकी॥ 7-150-56(51629)
दिष्ट्या पश्यामि वा शूरौ विमुक्तौ सैन्यसागरात्।
द्रोणग्राहदुराधर्षाद्धार्दिक्यमकरालयात्॥ 7-150-57(51630)
दिष्ट्या विनिर्जिताः सङ्ख्ये पृथिव्यां सर्वपार्थिवाः।
युवां विजयिनौ चापि दिष्ट्या पश्यामि संयुगे॥ 7-150-58(51631)
दिष्ट्या द्रोणो जितः सङ्ख्ये हार्दिक्यश्च महाबलः।
दिष्ट्या विकर्णिभिः कर्णोरणे नीतः पराभवम्॥ 7-150-59(51632)
विमुखश्च कृतः शल्यो युवाभ्यां पुरुषर्षभौ।
दिष्ट्या युवां कुशलिनौ सङ्ग्रामात्पुनरागतौ।
पश्यामि रथिनां श्रेष्ठावुभौ युद्धविशारदौ॥ 7-150-60(51633)
मम वाक्यकरौ वीरौ मम गौरवयन्त्रितौ।
सैन्यार्णवं समुत्तीर्णौ दिष्ट्या पश्यामि वामहम्॥ 7-150-61(51634)
समरश्लाघिनौ वीरौ समरेष्वपराजितौ।
मम वाक्यसमौ चैव दिष्ट्या पश्यामि वामहम्॥ 7-150-62(51635)
इत्युक्त्वा पाण्डवो राजन्युयुधानवृकोदरौ।
सस्वजे पुरुषव्याघ्रौ हर्षाद्बाष्पं मुपोच ह॥ 7-150-63(51636)
ततः प्रमुदितं सर्वं बलमासीद्विशाम्पते।
पाण्डवानां रणे हृष्टं युद्धाय तु मनो दधे॥ ॥ 7-150-64(51637)

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे प़ञ्चाशदधिकशततमोऽध्यायः॥ 150 ॥

Mahabharata - Drona Parva - Chapter Footnotes

5-150-8 गुप्तेन अर्जुनेनेति शेषः॥ 8 ॥ 5-150-15 शक्रानुजेति कृष्णं प्रति सम्बोधनम्॥ 5-150-25 चतुरश्चत्वारः॥ 5-150-27 त्वमिति। हेईशेश रुद्राद्याराध्य। ईश्वरा राजानस्तेषामपीशानो धर्मः। तदेतत्क्षत्रस्य क्षत्रं यद्धर्म इति श्रुतेस्तस्यापि प्रभो। धर्मस्य प्रभुरच्युत इति स्मृतेः॥ 5-150-28 सखा वयस्यः। हितः प्रियकृत्। गोप्ता दुःखनिवारकः॥ 5-150-29 कुण्डलितः पाठः झ. पुस्तक एव दृश्यते॥ 5-150-48 उत्तीर्णं लङ्घितम्॥ 5-150-50 चक्षुर्हणं क्रोधदृष्टिमात्रेण हन्तारम्॥ 5-150-150 पञ्चाशदधिकशततमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.